NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः

Shemushi Sanskrit Class 10 Solutions Chapter 9 सूक्तयः

अभ्यासः

प्रश्ना 1.
प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक-अभ्यासार्थम्)
(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तर:
विधाधनम्

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तर:
धर्मप्रदां

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तर:
विद्धांसः

(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तर:
सदाचारः

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्
उत्तर:
अहितम्

(च) वाचि किं भवेत्? वाला।
उत्तर:
अवकृता

प्रश्ना 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत यथा-विमूढधी:
पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुक्ते।
(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तर:
संसार कः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तर:
जनकेन कस्मै शैशवे विद्याधनं दीयते?

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तर:
कस्य निर्णय: 1 वेकेन कर्तुं शक्यः?

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तर:
धैर्यवान् कुत्र परिभवं न प्राप्नोति?

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तर:
आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?

प्रश्ना 3.
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
(क) पिता —— बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ——|
उत्तर:
पुत्राय, तत्कृतज्ञता।

(ख) येन —— यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तु —— भवेत्, सः ——- इति ——|
उत्तर:
केनापि, शक्यः, विवेक ईरितः।

(ग) य आत्मनः श्रेयः ——- सुखानि च इच्छति, परेभ्यः अहितं ——- कदापि च न ——।
उत्तर:
प्रभूतानि, कर्म, कुर्यात्।

प्रश्ना 4.
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत.
प्रश्नाः उत्तराणि
क. श्लोक संख्या -3
यथा-सत्या मधुरा च वाणी का? धर्मप्रदा
(क) धर्मप्रदां वाचं कः त्यजति? ———–
उत्तर:
विमूदधीः

(ख) मूढः पुरुषः कां वाणीं वदति? ———–
उत्तर:
परुषाम्

(ग) मन्दमतिः कीदृशं फलं खादति? ———–
उतर:
अपक्वम्

ख. श्लोक संख्या -7
यथा- बुद्धिमान् नरः किम् इच्छति? आत्मनः श्रेयः
(क) कियन्ति सुखानि इच्छति? ———–
उत्तर:
प्रभूतानि

(ख) सः कदापि किं न कुर्यात्? ———–
उत्तर:
अहितम्

(ग) सः केभ्यः अहितं न कुर्यात्? ———–
उत्तर:
परेभ्यः

प्रश्ना 5.
मञ्जूषायाः तद् भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखत-
(क) विद्याधनं महत्
उत्तर:
विद्याधनं सर्वधन प्रधानम्
विद्याधनं श्रेष्ठं तन्मूलमितद्धनम्

(ख) आचारः प्रथमो धर्मः
उत्तर:
आचारेण तु संयुक्तः सम्पूर्ण फल भाग्भवेत्
आचार प्रमवो धर्मः सत्त चाचार लक्षणाः

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
उत्तर:
सं वो मनांसि जानताम्। मनसि एक वचसि एक
कर्मणि एक महात्मनाम्।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

प्रश्ना 6.
(अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत-
शब्दाः – विलोमशब्दः
(क) पक्वः —— (परिपक्वः, अपक्वः, क्वथितः)
उत्तर:
अपक्वः

(ख) विमूढधीः ——— (सुधीः, निधिः, मन्दधी:)
उत्तर:
सुधीः

(ग) कातरः —— (अकरुणः, अधीरः, अकातरः)
उत्तर:
अकातरः

(घ) कृतज्ञता —— (कृपणता, कृतघ्नता, कातरता)
उत्तर:
कृतघ्न्ता

(ङ) आलस्यम् ——- (उद्विग्नता, विलासिता, उद्योगः)
उत्तर:
उद्योगः

(च) परुषा —— (पौरुषी, कोमला. कठोरा)
उत्तर:
कोमला।

(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्
(क) प्रभूतम् ……………. ……………… …………….
उत्तर:
प्रभूतम् भूरि बहु विपुलम्

(ख) श्रेयः ……………. ……………… …………….
उत्तर:
श्रेयः शुभम् शिव कल्याणम्

(ग) चित्तम् ……………. ……………… …………….
उत्तर:
चित्तम् मनः चेतः मानसम

(घ) सभा ……………. ……………… …………….
उत्तर:
सभा संसद परिषद सभा

(ङ) चक्षुष् ……………. ……………… …………….
उत्तर:
चक्षुष् लोचनम् नयनम् नैत्रम्

(च) मुखम् ……………. ……………… …………….
उत्तर:
मुखम् आननम् वक्त्रम् वदनम्

शब्द – मञ्जूषा
लोचनम् नेत्रम् भूरि
शुभम् मानसम्
मनः सभा नयनम्
आननम् चेतः विपुलम्
संसद् बहु वक्त्रम्
वदनम् शिवम् कल्याणम्

प्रश्ना 7.
अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः समस्तपदम् समासनाम
(क) तत्त्वार्थस्य निर्णयः ………… षष्ठी तत्पुरुषः
उत्तर:
तत्वार्थनिर्णय

(ख) वाचि पटुः ………… सप्तमी तत्पुरुषः
उत्तर:
वाक्पटुः

(ग) धर्म प्रददाति इति (ताम्) ………. उपपदतत्पुरुषः
उत्तर:
धर्मप्रदा

(घ) न कातरः ………… नञ् तत्पुरुषः
उत्तर:
अकातरः

(ङ) न हितम् ………….. नञ् तत्पुरुषः
उत्तर:
अहितम्

(च) महान् आत्मा येषाम् ………….. बहुब्रीहिः
उत्तर:
महात्मा

(छ) विमूढा धीः यस्य सः ……….. बहुब्रीहिः
उत्तर:
विमूढधीः

योग्यताविस्तारः

क. “तिरुक्कुरल्-सूक्तिसौरभम्’ इति पाठस्य तमिल मूलपाठः (देवनागरी – लिपौ)

सोर्कोट्टम् इल्लदु सेप्पुम् ओरू तलैया उळूकोट्टम इन्मै पेरिन्।
मगन् तन्दैवक्काटुम उद्रवि इवन् तन्दै एन्नोटान् कौमू एननुम सोक्त।
इनिय उळवाग इन्नाद कूरल् कनि इरूप्पक् काय् कवरंदट्र।
कण्णुडैयर् एन्पवर् कट्रोर मुहत्तिरण्डु पुण्णुडैयर कल्लादवर्।
एप्पोरूल यार यार वाय् केटपिनुम् अप्पोरूल मेय् पोरूल काण्पदरितु। लक्ष्मीः
सोललवल्लन् सोरविलन् अन्जान् अवनै इहलवेल्लल् यारुक्कुम् अरितु।
नोय एल्लाम् नोय् सेयदार मेलवान् नोय् सेययार नोय् इन्मै वेण्डुभव।
ओषुक्कम् विषुष्पम् तरलान् ओषुक्कम् ओभप्पडुम्।

ख. ग्रन्थपरिचयः

तिरुक्कुरल तमिलभाषायां रचिता तमिलसाहित्यस्य उत्कृष्टा कृतिः अस्ति। अस्य प्रणेतातिरुवल्लुवरः अस्ति। ग्रन्थस्य रचनाकालः अस्ति-ईशवीयाब्दस्य प्रथमशताब्दी।

अस्मिन् ग्रन्थे सकलमानवाजातेः कृते जीवनोपयोगिसत्यम् प्रतिपादितम्।

तिरु शब्दः ‘श्री’ वाचकः। ‘तिरुक्कुरल’ पदस्य अभिप्रायः अस्ति श्रिया युक्तं कुरल् छन्द:अथवा श्रिया युक्ता वाणी। अस्मिन् ग्रन्थे धर्म-अर्थ-काम-संज्ञकाः त्रयः भागाः सन्ति। त्रयाणां भागानां पद्यसंख्या 1330 अस्ति।

ग. भाव-विस्तारः

सदाचारः
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु।।
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।।

विद्याधनम्
विद्याधनम् धनं श्रेष्ठं तन्मूलमितरद्धनम्।
दानेन वर्धते नित्यं न भाराय न नीयते।
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा।।

मधुरा वाक्
प्रियवाक्यप्रदानेन तुष्यन्ति सर्व जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।
वाणी रसवती यस्य यस्य श्रमवती क्रिया।
दानवती यस्य सफलं तस्य जीवितम्।।

विद्वांसः
नास्ति यस्य स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
उयिरिनुम् स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।

These Solutions are part of NCERT Solutions for Class 10 Sanskrit. Here we have given NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 9 सूक्तयः.

Leave a Comment