MCQ Questions for Class 9 Sanskrit Chapter 4 कल्पतरूः with Answers

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Chapter 4 कल्पतरूः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the कल्पतरूः Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these कल्पतरूः objective questions.

कल्पतरूः Class 9 MCQs Questions with Answers

Practicing the Class 9 Sanskrit Chapter 4 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of कल्पतरूः Class 9 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 9 Sanskrit कल्पतरूः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितान् गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः। तस्य सानोः उपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। सः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।

Question 1.
‘प्राप्नोत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सः राजा
(ख) कल्पतरुम्
(ग) पुत्रं
(घ) तम्

Answer

Answer: (क) सः राजा


Question 2.
‘कल्पतरुः’ इति पदस्य विशेषणपदम् किम्?
(क) स्थितः
(ख) गृह
(ग) उद्याने
(घ) कुलक्रमागतः

Answer

Answer: (घ) कुलक्रमागतः


Question 3.
‘शिखरस्य’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) सानोः
(ख) सानोरूपरि
(ग) हिमवान्
(घ) नगेन्द्रः

Answer

Answer: (क) सानोः


Question 4.
‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) नगेन्द्राय
(ख) जीमूतवाहनाय
(ग) जीमूतकेतवे
(घ) जीमूतकेतुः

Answer

Answer: (ग) जीमूतकेतवे


Question 5.
जीमूतकेतुः कुत्र वसति स्म?

Answer

Answer: कञ्चनपुरे


Question 6.
जीमूतकेतोः पुत्रः कः आसीत्?

Answer

Answer: जीमूतवाहनः


Question 7.
जीमूतवाहनः कीदृशः आसीत्?

Answer

Answer: जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।


(ख) तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिणः पितृमन्त्रिणः यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्तः – “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

Question 1.
‘तस्य गुणैः ……।” अत्र ‘तस्य’ सर्वनामपदम् कस्मै प्रयुक्तम्।
(क) जीमूतवाहनाय
(ख) जीमूतवाहनस्य
(ग) जीमूतवाहनः
(घ) जीमूतवाहनम्

Answer

Answer: (क) जीमूतवाहनाय


Question 2.
‘कल्पतरुः’ इति पदस्य विशेषणपदं किम्?
(क) तव
(ख) उद्याने
(ग) सर्वकामदः
(घ) तिष्ठति

Answer

Answer: (ग) सर्वकामदः


Question 3.
‘शक्नुयात्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अस्मिन्
(ख) अनुकूले
(ग) शक्रः
(घ) अस्मान्

Answer

Answer: (ग) शक्रः


Question 4.
‘इन्द्रः’ इति पदस्य पर्यायपदं किम्?
(क) शक्रः
(ख) शक्रोऽपि
(ग) पूज्यः
(घ) कामदः

Answer

Answer: (क) शक्रः


Question 5.
राजा कम् यौवराज्ये अभिषिक्तवान्?

Answer

Answer: जीमूतवाहनम्


Question 6.
कः सदैव पूज्यः?

Answer

Answer: कल्पतरुः


Question 7.
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवान्?

Answer

Answer: हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवान्-“योऽयं सर्वकामदः कल्पतरु तवोधाने तिष्ठति सः तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रः अपि नास्मान् बाधितुम् शक्नुयात्।”


(ग) एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत्-“अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत्

Question 1.
‘पितरम्’ इति पदस्य विशेषणपदम् किम्?
(क) सुखमासीनं
(ख) आगत्य
(ग) एकान्ते
(घ) न्यवेदयत्।

Answer

Answer: (क) सुखमासीनं


Question 2.
‘साधयामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तत्
(ख) अहम्
(ग) अस्मात्
(घ) मनोरथः

Answer

Answer: (ख) अहम्


Question 3.
‘समीपम्’ इति पदस्य पर्यायपदं किम्?
(क) सुखम्
(ख) आसीनं
(ग) अन्तिकम्
(घ) रन्तिकम्

Answer

Answer: (ग) अन्तिकम्


Question 4.
‘पूर्वैः’ इति पदस्य विशेष्यपदं किम्?
(क) पुरुषैः
(ख) पुरुषैर
(ग) तादृशं
(घ) अस्माकं

Answer

Answer: (क) पुरुषैः


Question 5.
पितुः समीपम् कः अगच्छत्?

Answer

Answer: जीमूतवाहनः


Question 6.
कः अचिन्तयत्?

Answer

Answer: जीमूतवाहनः


Question 7.
अमरपादपं प्राप्यापि पूर्वैः पुरुषैः किम् कृतम्?

Answer

Answer: अमरपादपं प्राप्यापि पूर्वैः पुरुषैः तादृशं फलं किमपि न प्राप्तम् किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।


(घ) अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच – “देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्।
क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

Question 1.
‘धनानि’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) दिवं
(ख) कल्पतरु
(ग) वसूनि
(घ) भुवि

Answer

Answer: (ग) वसूनि


Question 2.
‘त्यक्तः त्वया….।’ अस्मिन् वाक्ये ‘त्वया’ इति सर्वनाम पदं कस्मै प्रयुक्तम्?
(क) जीमूतवाहनाय
(ख) जीमूतकेतवे
(ग) कल्पतरवे
(घ) कल्पतरुः

Answer

Answer: (क) जीमूतवाहनाय


Question 3.
‘यातोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वया
(ख) अहम्
(ग) एषः
(घ) त्यक्तः

Answer

Answer: (ख) अहम्


Question 4.
‘काम’ इति पदस्य विशेषणपदं किम्?
(क) एकम्
(ख) ममैकं
(ग) तन्ममैकं
(घ) तन्मम

Answer

Answer: (क) एकम्


Question 5.
जीमूतवाहनः कस्य समीपं गच्छति स्म?

Answer

Answer: कल्पतरोः


Question 6.
कस्य यशः सर्वत्र प्रथितम्?

Answer

Answer: जीमूतवाहनस्य


Question 7.
जीमूतवाहनः कल्पतरुम् किम् अकथयत्?

Answer

Answer: जीमूतवाहनः कल्पतरुम् अकथयत्, “त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथ्वीमदरिद्रां पश्यामि तथा करोतु देव” इति।


अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(ii) जीमूतवाहनः महान् दानवीरः आसीत्।
(iii) पूर्वैः पुरुषैः किमपि फलम् न आसादितम्।
(iv) जीमूतवाहनः पितुः अन्तिकम् अगच्छत्।
(v) अस्मिन् संसारे परोपकारः अनश्वरः अस्ति।

Answer

Answer:
(i) कस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्?
(ii) जीमूतवाहनः कीदृशः आसीत्?
(iii) कैः किमपि फलम् न आसादितम्?
(iv) जीमूतवाहनः कस्य अन्तिकम् अगच्छत्?
(v) अस्मिन् संसारे परोपकारः कीदृशः अस्ति?


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) “दैव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय।”
(ii) ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(iii) क्षणेन च सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्।
(iv) ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि न प्राप्तम्।
(v) “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।”
(vi) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
(vii) सः राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्।
(viii) कञ्चनपुरे जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म।

Answer

Answer:
(i) कञ्चनपुरे जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म।
(ii) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
(iii) सः राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्।
(iv) “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।”
(v) ईदृशम् अमरपादपम् प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि न प्राप्तम्।
(vi) “दैव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं काम पूरय।”
(vii) क्षणेन च सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गतः आसीत्।
(viii) ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।


रेखांकित पदानाम् प्रसंगानुसार शुद्धं अर्थ चित्वा लिखत

Question 1.
तस्य सानोः उपरि कञ्चनपुरं नाम नगरम् विभाति।
(क) शिखरस्य
(ख) समीपम्
(ग) शिखरम्
(घ) शिरसि

Answer

Answer: (क) शिखरस्य


Question 2.
सर्वं धनं वीचिवत् चञ्चलम् अस्ति।
(क) विचलितः
(ख) तरङ्गवत्
(ग) चलितं
(घ) तरङ्गाः

Answer

Answer: (ख) तरङ्गवत्


Question 3.
कल्पतरुः वसूनि अवर्षत्।
(क) वस्त्रम्
(ख) वसवः
(ग) धनानि
(घ) वस्त्रणि

Answer

Answer: (ग) धनानि


Question 4.
वाक् तरोः उद्भूत्।
(क) वृक्षः
(ख) तरु
(ग) वृक्षस्य
(घ) वृक्षात्

Answer

Answer: (घ) वृक्षात्


Question 5.
हिमवान् नगेन्द्रः अस्ति।
(क) पर्वतराजः
(ख) नरेन्द्रः
(ग) पर्वतः
(घ) नद्यः

Answer

Answer: (क) पर्वतराजः


अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

प्रसन्नः, आसीत्, यादृशं, अनश्वरः, नरकम्
पदानि – विलोमशब्दाः
(क) अस्ति – ……………
(ख) अप्रसन्नः – ……………
(ग) तादृशं – ……………
(घ) नश्वरः – ……………
(ङ) दिवम् – ……………

Answer

Answer:
पदानि – विलोमशब्दाः
(क) अस्ति – आसीत्
(ख) अप्रसन्नः – प्रसन्नः
(ग) तादृशं – यादृशम्
(घ) नश्वरः – अनश्वरः
(ङ) दिवम् – नरकम्


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Chapter 4 कल्पतरूः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit कल्पतरूः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

Leave a Comment