Categories: MCQ Questions

अपठित-अवबोधनम् MCQ Questions with Answers Class 9 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अपठित-अवबोधनम् Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अपठित-अवबोधनम् objective questions.

MCQ Questions for Class 9 Sanskrit Grammar अपठित-अवबोधनम् with Answers

अधोलिखितम् गद्यांशं पठित्वा उत्तराणि लिखत
निम्नलिखित गद्यांशों को ध्यानपूर्वक पढ़कर दिए गए प्रश्नों के उत्तर दें

(1)

संस्कृतभाषायाम् इदं प्रसिद्धम् अस्ति-अविवेकी पक्षपाती जायते। अस्य तात्पर्यमस्ति यत् अविवेकिनः जनाः स्वजनान् एव पोषयन्ति एवम् एव श्रीहर्षः स्वमहाकाव्ये लिखति–’भवन्ति हि भव्येषु पक्षपातः’। वस्तुतः ये जनाः आत्मनां कृते भव्याः प्रियाः च भवन्ति तान् प्रति तु पक्षपातः संजायते एव। जनाः अस्याभिप्रायम् इमं गृह्णन्ति यत् स्वजातीयानां पारिवारिकाणाम् जनानां वा पक्षे स्वीकृते एव उदयः भवति भ्रष्टाचारस्य। अतः अतिप्राचीनकालाद् एव समाजे भ्रष्टाचारः प्रचलितः आसीत्। अभिज्ञानशाकुन्तलेऽपि वयं पश्यामः यद् राज्ञः श्यालः खलु आरक्षकाणां महाधिकारी आसीत्।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘जनाः भव्याः प्रियाः च भवन्ति’ अत्र विशेष्यपदं किम्?
(क) भव्याः
(ख) प्रियाः
(ग) भवन्ति
(घ) जनाः

Answer

Answer: (घ) जनाः


Question 2.
‘स्वीकुर्वन्ति’ इत्यर्थे कः शब्दः प्रयुक्तः?
(क) जायन्ते
(ख) ग्रह्णन्ति
(ग) पोषयन्ति
(घ) भवन्ति

Answer

Answer: (ख) ग्रह्णन्ति


Question 3.
विवेकिनः’ इति पदस्य कः विपर्ययः अत्र अस्ति?
(क) विवेकी
(ख) विवेकिन्
(ग) विवेकिनः
(घ) विवेकः

Answer

Answer: (ग) विवेकिनः


Question 4.
‘लिखति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) स्वमहाकाव्यः
(ख) श्रीहर्षः
(ग) कालिदासः
(घ) अभिज्ञानशाकुन्तलम्

Answer

Answer: (ख) श्रीहर्षः।


Question 5.
कालिदास-विरचित-नाटकस्य नाम किम्?

Answer

Answer: अभिज्ञानशाकुन्तलम्


Question 6.
भ्रष्टाचारः कस्मात् कालात् प्रचलितः?

Answer

Answer: अति प्राचीनकालात्


Question 7.
आरक्षकाणां महाधिकारी कः आसीत्?

Answer

Answer: श्यालः


Question 8.
‘अविवेकी पक्षपाती जायते’ अस्य किं तात्पर्यम् अस्ति?

Answer

Answer: अस्य तात्पर्यम् अस्ति यत् अविवेकिनः जनाः स्वजनान् एव पोषयन्ति।


Question 9.
कान् प्रति तु पक्षपातः संजायते एव?

Answer

Answer: वस्तुतः ये जनाः आत्मनां कृते भव्याः प्रियाः च भवन्ति तान् प्रति तु पक्षपात: संजायते एव।


Question 10.
संस्कृतभाषायाम् किम् प्रसिद्ध अस्ति?

Answer

Answer: संस्कृतभाषायाम् इदं प्रसिद्धम् अस्ति–अविवेकी पक्षपाती जायते।


Question 11.
अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: ‘अविवेकी पक्षपाती जायते’ अथवा ‘भवन्ति हि भव्येषु पक्षपात:’ अथवा ‘भ्रष्टाचारस्य कारणम् पक्षपात:’।


(2)

महाभारते व्यासः धर्मम् शाश्वतम् अकथयत्-अतः जनैः लोभेन भयेन वा धर्मः न परित्याज्यः। महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति। प्रत्येकं वीरस्य वीरगाथा अत्र कथारूपेण वर्णिता। भगवतः श्रीकृष्णस्य सारथित्वे अर्जुनः एकाकी एव अनेकान् जयति। युद्धे पात्रयोः संवाद: यदा-कदा एकम् उपाख्यानं भवति। अस्य अंश: गीतानाम्ना अस्मिन् विश्वे प्रतिष्ठितः। दैव्यः आसुर्यः सम्पदः अपि सम्यक् कथिताः अत्र। महाभारतस्य सर्वाधिकं प्रमुखं पात्रं भीष्मः अपि वर्तते।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
(i) ‘श्रीकृष्णस्य’ इति विशेष्यपदस्य विशेषणम् अत्र किम् ?
(क) भगवानस्य
(ख) भगवतस्य
(ग) भगवतः
(घ) देवस्य

Answer

Answer: (ग) भगवतः


Question 2.
लघुकथायाः कः पर्यायः अत्र प्रयुक्तः?
(क) उपाख्यानम्
(ख) दृश्यम्
(ग) अंशः
(घ) आख्यानम्

Answer

Answer: (क) उपाख्यानम्


Question 3.
असम्यक्’ इति अस्य विपर्ययपदम् अनुच्छेदात् चित्वा लिखत।
(क) शुभम्
(ख) सम्यक्
(ग) नूनम्
(घ) प्रमुखम्

Answer

Answer: (ख) सम्यक्


Question 4.
‘अकथयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) महाभारतः
(ख) व्यासः
(ग) धर्मः
(घ) शाश्वतः

Answer

Answer: (ख) व्यासः


Question 5.
महाभारतस्य प्रणेता कः?

Answer

Answer: महर्षिव्यासः


Question 6.
महाभारतस्य कः अंशः अस्मिन् विश्व प्रतिष्ठितः?

Answer

Answer: गीता


Question 7.
महाभारत कयोः युद्धस्य वर्णनमेव चित्रयति?

Answer

Answer: कौरवपाण्डवयोः


Question 8.
काः सम्पदः अत्र कथिताः?

Answer

Answer: दैव्यः आसुर्यः सम्पद: अत्र सम्यक् कथिताः।


Question 9.
महाभारतं वस्तुतः कस्य वर्णनमेव चित्रयति?

Answer

Answer: महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति।


Question 10.
कः एकाकी एव अनेकान् जयति?

Answer

Answer: भगवतः श्रीकृष्णस्य सारथित्वे अर्जुनः एकाकी एवं अनेकान् जयति।


Question 11.
अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: महाभारतस्य परिचयः।।


(3)

भारते उत्सवाः द्विविधाः सन्ति-राष्ट्रीयाः उत्सवाः अन्ये च पारम्परिकाः उत्सवाः। 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः जातः। अतः समग्रे देशे अयम् उत्सवः आयोज्यते। एवमेव 1950 तमे वर्षे जनवरीमासस्य षड्विंशतितिथौ गणतन्त्र दिवस समारोहः भवति। एतौ अस्माकं राष्ट्रीयौ उत्सवौ। पारम्परिक-उत्सवेषु एकः विशिष्टः उत्सवः श्रावणपूर्णिमा वर्तते। एतत् दिनं भारतस्य केन्द्रशासनेन संस्कृतदिनत्वेन घोषितम् अस्ति। अतः समग्रे देशे संस्कृतज्ञाः संस्कृतोत्सवम् मानयन्ति। अस्मिन् दिने अस्माभिः संस्कृतकार्यक्रमेषु भागः ग्रहीतव्यः। विदुषां मेलनं, संस्कृत नाटकानां मञ्चनम्, परिचर्चा, श्लोकोच्चारणम्, संवादाः, प्रदर्शनी, इत्यादयः बहवः कार्यक्रमाः आयोजयितुं शक्यन्ते। संस्कृतम् अस्माकं देशस्य गौरवम् इति अस्माभिः सर्वदा स्मरणीयम्। संस्कृतमेव अस्माकं संस्कृतिः आश्रिता। अतएव उच्यते-भारतस्य प्रतिष्ठे द्वे-संस्कृतं संस्कृतिश्च।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘सम्पूर्णे’ इति अर्थे किं पदम् अत्र प्रयुक्तम् ?
(क) समस्ते
(ख) समग्रे
(ग) देशे
(घ) स्थाने

Answer

Answer: (ख) समग्रे


Question 2.
‘द्वे’ इति पदं कस्य विशेषणम्?
(क) प्रतिष्ठौ
(ख) प्रतिष्ठः
(ग) प्रतिष्ठम्
(घ) प्रतिष्ठे पदस्य

Answer

Answer: (घ) प्रतिष्ठे पदस्य


Question 3.
‘मूर्खाणाम्’ इत्यस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) विदुषाम्
(ख) ज्ञानीनाम्
(ग) छात्राणाम्
(घ) अध्येतृणाम्

Answer

Answer: (क) विदुषाम्


Question 4.
अस्ति’ इति अर्थे किं पदं प्रयुक्तम्?
(क) भवति
(ख) वर्तते।
(ग) मानयति
(घ) उच्यते

Answer

Answer: (ख) वर्तते


Question 5.
गणतन्त्र दिवस-समारोहः कदा समायोज्यते?

Answer

Answer: षड्विंशति तिथौ


Question 6.
किं दिनं ‘संस्कृतदिवसः’ इति घोषिता?

Answer

Answer: श्रावणपूर्णिमादिनम्


Question 7.
अस्माकं राष्ट्रीय उत्सवः कति?

Answer

Answer: द्वौ


Question 8.
संस्कृतदिवसे अस्माभिः किं करणीयम?

Answer

Answer: संस्कृतदिवसे अस्माभिः संस्कृतकार्यक्रमेषु भागः ग्रहीतव्यः।


Question 9.
अस्मिन् दिने के कार्यक्रमाः आयोजयितुं शक्यन्ते?

Answer

Answer: अस्मिन् दिने विदुषां मेलनं, संस्कृत नाटकानां मञ्चनम्, परिचर्चा, श्लोकोच्चारणम्, संवादाः, प्रदर्शनी, इत्यादयः बहवः कार्यक्रमाः आयोजयितुं शक्यन्ते।


Question 10.
अस्माकं देशः कदा स्वतन्त्रः जातः?

Answer

Answer: 1947 तमे वर्षे अगस्तमासस्य पञ्चदश दिनांके अस्माकं देशः स्वतन्त्रः जातः।


Question 11.
अस्य अनुच्छेदस्य उपयुक्तम् शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: संस्कृतदिवसः/श्रावण पूर्णिमा/भारतस्य उत्सवाः/भारतस्य गौरवं संस्कृतम्।


(4)

एकदा कस्यचिद् धनिकस्य गृहे महात्मा गान्धिः प्रवचनं करोति स्म। बहवः श्रोतारः उपस्थिताः आसन्। प्रायः प्रवचनस्य प्रारम्भे महात्मा गान्धि; दीपं निर्वाप्य प्रार्थनां करोति स्म। एकदा सः पार्श्वे स्थितं तं धनिकं दीपस्य निर्वापणार्थं सङ्केतम् अकरोत्। धनिकः तद् अवगम्य सेवकम् आहूतवान्। यावत् सेवकः आगच्छति, तावत् दीपः निर्वापितः अभवत्। स्वयं महात्मा गान्धिः तं दीपं निर्वापितवान्। प्रवचने महात्मा उपादिशत्-केचन जनाः शारीरिककर्माणि निकृष्टानि मन्यन्ते। एषः भावः निन्दनीयः, स्वकार्य स्वयमेव करणीयम्। तस्मिन् एव क्षणे मृत्तिकायाः पुष्पपात्रम् अधः पतितम्। तत्क्षणमेव उत्थाय महात्मा खण्डान् उत्थापयितुं प्रयत्नशीलः जातः परन्तु तस्मादपि पूर्वं धनिकः झटिति उत्थाय तत् कार्यम् अकरोत्। एवं सः महात्मा आत्मनः उदाहरणं प्रस्तुत्य शारीरिकश्रमस्य महत्त्वं दर्शितवान्। किं वयं स्वकार्य स्वयमेव कुर्मः?

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘उपरि’ इति अव्ययस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) नीचैः
(ख) अधः
(ग) उच्चैः
(घ) शनैः

Answer

Answer: (ख) अधः


Question 2.
‘पतितम्’ इति क्रियायाः कर्तृपदम् अत्र किम्?
(क) पुष्पपात्रम्
(ख) पात्रम्
(ग) पुष्पम्
(घ) क्षणे

Answer

Answer: (क) पुष्पपात्रम्


Question 3.
‘श्रोतारः’ इति पदस्य किं विशेषणपदम् अत्र प्रयुक्तम्?
(क) बहवः
(ख) उपस्थिताः
(ग) आसन्
(घ) तत्र

Answer

Answer: (क) बहवः


Question 4.
‘शीघ्रम्’ इत्यर्थे किं पदप्रयुक्तम्?
(क) पार्श्वम्
(ख) झटिति
(ग) उत्थाय
(घ) जातः

Answer

Answer: (ख) झटिति


Question 5.
प्रवचनं कः करोति स्म?

Answer

Answer: महात्मा गान्धिः


Question 6.
केचन जनाः कानि निकृष्टकर्माणि मन्यन्ते?

Answer

Answer: शारीरिक-कर्माणि


Question 7.
कति श्रोतारः उपस्थिताः आसन्?

Answer

Answer: बहवः


Question 8.
प्रवचनस्य प्रारम्भे महात्मा गान्धिः किं करोति स्म?

Answer

Answer: प्रवचनस्य प्रारम्भे महात्मागान्धिः दीपं निर्वाप्य प्रार्थनां करोति स्म।


Question 9.
प्रवचने महात्मा किम् उपदिशत्?

Answer

Answer: प्रवचने महात्मा उपादिशत्-केचन जनाः शारीरिककर्माणि निकृष्टानि मन्यन्ते। एषः भावः निन्दनीयः, स्वकार्य स्वयमेव करणीयम्।


Question 10.
धनिकः किम् कार्यम् अकरोत्?

Answer

Answer: एकम् मृत्तिकायाः पुष्पपात्रम् अधः पतितम्। तत्क्षणमेव उत्थाय महात्मा खण्डान् उत्थापायितुम् प्रयत्नशीलः जातः परन्तु तस्मादपि पूर्वः धनिकः झटिति उत्थाय तत् कार्यम् अकरोत्।


Question 11.
अस्य अनुच्छेदस्य उपयुक्तम् शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: शारीरिक श्रमस्य महत्त्वम्/स्वकार्यम् स्वयमेव करणीयम्।


(5)

सूर्यः प्रातःकाले पूर्वस्यां दिशायाम् उदेति। प्रात:काले सूर्यस्य प्रकाशः अन्धकारम् अपनयति। तदा प्रकृतेः शोभा अतीव रमणीया भवति। शीतलः मन्दः सुगन्धः च पवनः वहति। खगाः वृक्षेषु मधुरं कूजन्ति। उपवनेषु पुष्पाणि सरोवरेषु च कमलानि विकसन्ति। विकसितानां पुष्पाणामुपरि स्थित्वा भ्रमराः मधुरं गुञ्जन्ति। आश्रमेषु मुनयः स्नानं कृत्वा सूर्यं नमन्ति ईश्वरं च भजन्ति। ग्रामेषु कृषकाः प्रातराशं कृत्वा हलसहितान् बलीवर्दान् नीत्वा क्षेत्राणि प्रति गच्छन्ति। जनाः उपवनेषु भ्रमणं कुर्वन्ति। छात्राः विद्यालयं गच्छन्ति। ते तत्र पाठान् पठन्ति लेखान् च लिखन्ति। अस्माकं जीवने सूर्यस्य अत्यधिकं महत्त्वमस्ति। अस्यैव प्रकाशे सर्वः व्यवहारः प्रचलति। अस्य दिनपति-रवि-दिनमणि-आदित्यभास्कर-दिनेश-इत्यादीनि अनेकानि अभिधानानि सन्ति। गायत्रीमन्त्रः अस्यैव स्तुतिं करोति।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
सूर्यस्य पर्यायपदं लिखत।
(क) रविः
(ख) प्रकाशः
(ग) व्यवहारः
(घ) पवनः

Answer

Answer: (क) रविः


Question 2.
‘रमणीया’ इति कस्य पदस्य विशेषणम्?
(क) भ्रमणस्य
(ख) सूर्यस्य
(ग) शोभायाः
(घ) उपवनस्य

Answer

Answer: (ग) शोभायाः


Question 3.
वहति’ इति क्रियायाः कर्तृपदं किम्?
(क) मन्दः
(ख) पवनः
(ग) शीतलः
(घ) सुगन्धः

Answer

Answer: (ख) पवनः


Question 4.
प्रार्थना इत्यर्थे किं पदं प्रयुक्तम्?
(क) दिनपति
(ख) सूर्यस्य
(ग) स्तुतिः
(घ) नमन्ति

Answer

Answer: (ख) स्तुतिः


Question 5.
सूर्यस्य प्रकाशः कम् अपनयति?

Answer

Answer: अन्धकारम्


Question 6.
पुष्पाणामुपरि स्थित्वा के मधुरं गुञ्जन्ति?

Answer

Answer: भ्रमराः


Question 7.
छात्राः कुत्र गच्छन्ति?

Answer

Answer: विद्यालयम्


Question 8.
प्रातःकाले कृषकाः किं कुर्वन्ति?

Answer

Answer: प्रातःकाले कृषकाः प्रातराशं कृत्वा हलसहितान् बलीवर्दान् नीत्वा क्षेत्राणि प्रति गच्छन्ति।


Question 9.
सूर्यः प्रातःकाले कुत्र/कस्याम् उदेति?

Answer

Answer: सूर्यः प्रात:काले पूर्वस्यां दिशायाम् उदेति।


Question 10.
मुनयः किम् कुर्वन्ति?

Answer

Answer: आश्रमेषु मुनयः स्नानं कृत्वा सूर्यं नमन्ति ईश्वरं च भजन्ति।


Question 11.
अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।

Answer

Answer: सूर्यस्य महत्त्वम्/प्रात:कालस्य वर्णनम्।


(6)

एक: अतिदुष्टः वानरः आसीत्। प्रतिदिनं सः यथाशक्ति वृक्षे स्थितान् पक्षिणः तुदति स्म। उपनीडं गत्वा तेषां श्रमस्य उपहासं करोति स्म। एकः पक्षी अवदत्-भो किमर्थम् उपहससि? अनुवृष्टि नीडम् एव अस्मान् रक्षति। वयं परिश्रमं कुर्मः, निर्विघ्नं च जीवामः। वानरः साट्टहासम् अवदत् ‘मूर्खाः यूयम्। अरे! योगिनां कुतः गृहम्?’ एवं कथयित्वा तेन दुष्टेन पक्षिणाम् नीडानि भग्नानि। एकः पक्षी अवदत्-‘योगिनः प्रतिजीवम् उपकारमेव कुर्वन्ति। किम् इदम् अनुरूपम् साधुजनस्य?’इदं कार्यं कृत्वा त्वं असाधुः निर्लज्जः इव प्रतिभासि। संसारे कर्मणामेव महत्त्वं वर्तते न तु रूपस्य। उत्तमं रूपं तु धृत्वा असाधवः राक्षसाः जनान् तुदन्ति पीडयन्ति वा। तव कायम् एव तव लक्षणं वर्तते।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘अरे! योगिनां कुतः गृहम्’? इति वाक्यस्य वक्ता कः?
(क) पक्षिणः
(ख) पक्षी
(ग) वानरः
(घ) मूर्खः

Answer

Answer: (ग) वानरः


Question 2.
हितम्’ इत्यस्य पदस्य गद्यांशे कः पर्यायः आगतः?
(क) उपकारम्
(ख) अपकारम्
(ग) संहारम्
(घ) प्रहारम्

Answer

Answer: (क) उपकारम्


Question 3.
‘स्थितान्’ इति विशेषण पदस्य विशेष्यः कः?
(क) पक्षिणः
(ख) पक्षि
(ग) पक्षिणे
(घ) पक्षिणि

Answer

Answer: (क) पक्षिणः


Question 4.
वानरः इतिपदस्य विशेषणपदं किम्?
(क) एकः
(ख) अतिदुष्टः
(ग) दुष्टः
(घ) तुदति

Answer

Answer: (ख) अतिदुष्टः


Question 5.
पक्षिणः कः तुदति स्म?

Answer

Answer: वानरः


Question 6.
अनुवृष्टि किं खगान् रक्षति?

Answer

Answer: नीडम्


Question 7.
संसारे केषाम् महत्वम् अस्ति?

Answer

Answer: कर्मणाम्


Question 8.
वानरः साट्टहासं किम् अवदत्?

Answer

Answer: वानरः साट्टहासम् अवदत्-‘मूर्खाः यूयम्। अरे ! योगिनां कुतः गृहम्?’


Question 9.
उत्तम रूपं धृत्वा असाधवः किं कुर्वन्ति?

Answer

Answer: उत्तमं रूपं तु धृत्वा असाधवः राक्षसाः जनान् तुदन्ति पीडयन्ति वा।


Question 10.
दुष्टवानरः किं करोति स्म?

Answer

Answer: दुष्टवानरः प्रतिदिन वृक्षे स्थितान् पक्षिणः तुदति स्म। उपनीडम् गत्वा तेषाश्रमस्य उपहासं करोति स्म।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: असाधोः व्यवहारः। दुष्टः वानरः।


(7)

कश्चित् वनवासी एकदा ग्रामम् अगच्छत्। ग्रामगतः सः तत्र यन्त्रचालितम् अरघट्टम् दृष्टवान्। अरघट्टस्य घटिकापतत् जलं क्षेत्राणि सिञ्चति स्म। यन्त्रदर्शनेन चकितः सः नगरं प्रति प्रस्थितः। तत्र आपणगतानि वस्तूनि दृष्ट्वा अचिन्तयत्-अरे! किमेतत् सर्वं मानवनिर्मितम्? अनुपमा मानवशक्तिः। विविधा भोजनसामग्री, यन्त्रनिर्मितानि परिधानवस्त्राणि, आत्मरक्षायै शस्त्राणि, शरीरशोभायै प्रसाधनद्रव्याणि, विस्तृताः सञ्चारमार्गाः विद्युद्व्यजनानि ग्रीष्मतापहरणाय वातानुकूलनयन्त्राणि शीत निवारणाय उष्णकाणि। एतत् सर्वं दृष्ट्वा सः आश्चर्यविमूढः जातः। वृक्षमूले उपविश्य सः अवदत्-अहो कथं विज्ञानाधीनः जातः अद्यतनः मानवः।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘विस्तृताः सञ्चार मार्गाः’ अनयोः पदयोः विशेषणपदं किम्?
(क) सञ्चाराः
(ख) मार्गाः
(ग) सञ्चारमार्गाः
(घ) विस्तृताः

Answer

Answer: (घ) विस्तृताः


Question 2.
शीतनिवारणाय उष्णकानि भवन्ति? अस्मिन् वाक्ये कर्तृपदं किम्?
(क) भवन्ति
(ख) उष्णकानि
(ग) शीतानि
(घ) शीतनिवारणाय

Answer

Answer: (ख) उष्णकानि


Question 3.
‘ग्रामगतः’ इति पदं कस्मै आगतम्?
(क) वनवासिने
(ख) नगरवासिने
(ग) ग्रामाय
(घ) जनाय

Answer

Answer: (क) वनवासिने


Question 4.
‘सिञ्चतिस्म’ क्रियापदस्य कतृपदं किम्?
(क) अरघट्टम्
(ख) जलम्
(ग) क्षेत्रम्
(घ) नगरम्

Answer

Answer: (ख) जलम्


Question 5.
ग्रामगतः वनवासी किं दृष्टवान्?

Answer

Answer: अरघट्टम्


Question 6.
ग्रीष्मतापहरणाय कानि सन्ति?

Answer

Answer: वातानुकूलनयन्त्राणि


Question 7.
एकदा वनवासी कुत्र अगच्छत्?

Answer

Answer: ग्रामम्


Question 8.
किम् दृष्ट्वा वनवासी आश्चर्यविमूढः जातः?

Answer

Answer: विविध भोजन सामग्रीम्, यन्त्रनिर्मितानि परिधानवस्त्राणि, आत्मरक्षायै शस्त्राणि, शरीर शोभायै प्रसाधनद्रव्याणि आदीनि वस्तूनि दृष्ट्वा वनवासी आश्चर्यविमूढः जातः।


Question 9.
वृक्षमूले उपविश्य सः किम् अवदत्?

Answer

Answer: वृक्षमूले उपविश्य सः अवदत्-अहो कथं विज्ञानाधीनः जातः अद्यतनः मानवः।


Question 10.
ग्रामगतः सः तत्र किम् दृष्ट्वान्?

Answer

Answer: ग्रामगतः सः तत्र यंत्रचालितम् अरघट्टम् दृष्ट्वान् अरघटट्स्य घटिकापतत् जलं क्षेत्राणि सिञ्चति स्म।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।

Answer

Answer: विज्ञानाधीनः अद्यतन: मानवः।


(8)

अद्य वने पशु महोत्सवः अस्ति। मञ्चस्य उपरि सिंहः विराजते। आकाशे सर्वत्र मेघाः सन्ति। मेघान् दृष्ट्वा मयूराः वृक्षाणाम् अधः नृत्यन्ति। पशवः इतस्ततः भ्रमन्ति। सर्पः कोटरात् बहिः आगच्छति। सर्पात् भीताः पशवः कोलाहलं कुर्वन्ति। कोलाहलं श्रुत्वा सिंहः उच्चैः गर्जति आदिशति च-भोः। कोलाहलं मा कुरुत। शृणुत-अस्माकं जीवनं वृक्षान् विना असम्भवम्। वृक्षाः फलानि छायां च दत्त्वा अस्मान् उपकुर्वन्ति। अतः अस्माभिः वने नूनं वृक्षाः रक्षणीयाः। वृक्षाः देववत् जनान् रक्षन्ति। ते धरायाः उपरि साक्षात्देवाः भवन्ति। तेषां जन्म एव परार्थाय भवति। तान् प्रति कृतं पापम् अक्षम्यं भवति। अतः ध्यातव्यम्-‘वृक्षदेवो भव’।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘अद्य पशुमहोत्सवः वने अस्ति।’ अस्मिन् वाक्ये क्रियापदं किम्?
(क) अस्ति
(ख) अद्य
(ग) वने
(घ) पशुमहोत्सवः

Answer

Answer: (क) अस्ति


Question 2.
‘अन्तः’ इत्यस्य पदस्य विपर्ययः कः?
(क) मा
(ख) बहिः
(ग) विना
(घ) नूनम्

Answer

Answer: (ख) बहिः


Question 3.
‘अस्मान्’ इति पदस्य प्रयोगः केभ्यः अभवत्?
(क) पशुभ्यः
(ख) जनेभ्यः
(ग) वृक्षेभ्यः
(घ) सिंहभ्यः

Answer

Answer: (क) पशुभ्यः।


Question 4.
‘उपकुर्वन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सिंहाः
(ख) पशवः
(ग) वृक्षाः
(घ) मयूराः

Answer

Answer: (ग) वृक्षाः


Question 5.
मेघाः कुत्र सन्ति?

Answer

Answer: आकाशे


Question 6.
सात् भीताः के आसन्?

Answer

Answer: पशवः


Question 7.
अस्माभिः वने के रक्षणीया:?

Answer

Answer: वृक्षाः


Question 8.
सिंहः किम् आदिशति?

Answer

Answer: सिंहः आदिशति-भोः! कोलाहलं मा कुरुत। शृणुत-अस्माकं जीवनं वृक्षान् विना असम्भवम् वृक्षाः रक्षणीयाः।


Question 9.
मेघान् दृष्ट्वा के कुत्र च नृत्यन्ति?

Answer

Answer: मेघान् दृष्ट्वा मयूराः वृक्षाणाम् अधः नृत्यन्ति।


Question 10.
किम् ध्यातव्यम्?

Answer

Answer: अस्माभिः ध्यातव्यम्- “वृक्षदेवोभव”।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: वृक्षाणां महत्त्वम् / पशुमहोत्सवः।


(9)

पूर्वकाले जगदेवः नाम कश्चन राजा आसीत्। “प्रपञ्चः एव जेतव्यः। प्रभूतां सम्पत्तिं प्राप्य सुखेन जीवनं करणीयम्” इति तस्य राज्ञः इच्छा आसीत्। तत्मात् सः सर्वदा युद्धे रतः आसीत्। एकैकमपि देशं जेतुं सः प्रयतते स्म। तेन प्रभूतम् ऐश्वर्यम् (धनम्) अपि सम्पादितम्। अथ कदाचित् कश्चन संन्यासी तत् समीपम् आगत्य अवदत्- “राजन्! मम तिम्रः अतीव निम्नतराः अपेक्षाः सन्ति। किं भवान् ताः पूरयितुं शक्नुयात्?” इति। “कथं न? मम ऐश्वर्यम् अपारम् वर्तते शक्तिश्च अपरिमितास्ति। भवताम् अपेक्षायाः पूरणे मम कः क्लेशः स्यात्? उच्यताम्, मया किं करणीयम्?” इति राजा सगर्वम् अवदत्।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘तस्मात् सः सर्वदा युद्धे रतः आसीत्’। अस्मिन् वाक्ये क्रियापदं किम्?
(क) रतः
(ख) सर्वदा
(ग) युद्ध
(घ) आसीत्

Answer

Answer: (घ) आसीत्


Question 2.
‘प्रभूतां सम्पत्तिम्’ अनयोः पदयोः विशेष्यपदं किं वर्तते?
(क) प्रभूतां
(ख) प्रभूतम्
(ग) सम्पत्तिम्
(घ) सम्पत्तिः

Answer

Answer: (ग) सम्पत्तिम्


Question 3.
अनुच्छेदे ‘इच्छाः इति पदस्य कः पर्यायः आगतः?
(क) अनपेक्षाः
(ख) अपेक्षाः
(ग) कामनाः
(घ) कामाः

Answer

Answer: (ख) अपेक्षाः


Question 4.
‘सम्पादितम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तेन
(ख) अपि।
(ग) प्रभूतम्
(घ) ऐश्वर्यम्

Answer

Answer: (क) तेन


Question 5.
नृपस्य किं नाम असीत्?

Answer

Answer: जगद्देवः


Question 6.
कदाचित् नृपस्य समीपम् कः आगत्य अवदत्?

Answer

Answer: संन्यासी


Question 7.
राजा कथम् अवदत्

Answer

Answer: सगर्वम्


Question 8.
नृपस्य का इच्छा आसी?

Answer

Answer: नृपस्य इच्छा आसीत् – “प्रपञ्चः एव जेतव्यः। प्रभुतां सम्पत्तिं प्राप्य सुखेन जीवनं करणीयम्”।


Question 9.
राज्ञः का इच्छा आसीत्?

Answer

Answer: “प्रपञ्चः एव जेतव्यः। प्रभूतां सम्पत्तिं प्राप्य सुखेन जीवनं करणीयम्” इति तस्य राज्ञः इच्छा आसीत्।


Question 10.
सः सर्वदा कस्मिन् रतः आसीत्?

Answer

Answer: सः सर्वदा युद्धे रतः आसीत्।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: नृपस्य अहङ्कारम् / गर्वितः नृपः जगदेवः।


(10)

कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म। अथ कदाचित्पापबुद्धिना चिन्तितम्-अहं तावन्मूों दरिद्रश्च। तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्य आश्रयेण अर्थोपार्जनं कृत्वा एनापि वञ्चयित्वा सुखी भवामि इति। अथान्यस्मिन्नदिने पापबुद्धिः धर्मबुद्धिं प्राह-भो मित्र! शास्त्रेष्वेवं वर्णितम् यद् येन देशान्तरेषु बहुविधभाषावेदादि न ज्ञातं तस्य जन्म धरणीपीठे निरर्थकम्। अतः आवाम् देशान्तरं गच्छावेति।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘दुःखी’ पदस्य कः विपर्ययः अनुच्छेदे प्रयुक्तः?
(क) सुख
(ख) दु:ख
(ग) सुखी
(घ) मुखी

Answer

Answer: (ग) सुखी


Question 2.
अनुच्छेदे ‘सखायौ’ पदस्य कः पर्यायः आगतः?
(क) द्वे
(ख) मित्रे
(ग) सुखी
(घ) दुःखी

Answer

Answer: (ख) मित्रे


Question 3.
अन्तिमे वाक्ये ‘आवाम्’ इति कर्तृपदस्य क्रियापदं किम् लिखितम् ?
(क) आवाम्
(ख) देशान्तरं
(ग) गच्छावेति
(घ) गच्छाव

Answer

Answer: (घ) गच्छाव


Question 4.
‘प्राह’ इति क्रियापदस्य कर्तृपदं किम्?
(क) धर्मबुद्धि
(ख) पापबुद्धि
(ग) आवाम्
(घ) मित्र

Answer

Answer: (ख) पापबुद्धिः


Question 5.
धर्मबुद्धः मित्रस्य किं नाम आसीत्?

Answer

Answer: पापबुद्धिः


Question 6.
मूर्खः दरिद्रः च कः आसीत्?

Answer

Answer: पापबुद्धिः


Question 7.
तौ कुत्र गच्छतः?

Answer

Answer: देशान्तरम्


Question 8.
पापबुद्धिः कस्य आश्रयेण अर्थोपार्जनं कर्तुम् इच्छति?

Answer

Answer: पापबुद्धिः धर्मबुद्धेः आश्रयेण अर्थोपार्जनं कर्तुम् इच्छति।


Question 9.
अथान्यस्मिन्नदिने पापबुद्धिः धर्मबुद्धिं किं आह?

Answer

Answer: अथान्यस्मिन्नदिने पापबुद्धिः धर्मबुद्धिं प्राह-भो मित्र! शास्त्रेष्वेवं वर्णितम् यद् येन देशान्तरेषु बहुविधभाषावेदादि न ज्ञातं तस्य जन्म धरणीपीठे निरर्थकम्। अतः आवाम् देशान्तरं गच्छावेति।


Question 10.
द्वे मित्रे कुत्र प्रतिवसतः स्म?

Answer

Answer: कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म।


Question 11.
अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: धर्मबुद्धेः पापबुद्धेश्च कथा।


(11)

आतंकवादः आधुनिक विश्वस्य गुरुतमा समस्या अस्ति। संसारस्य प्रत्येकं देशः आतंकवादेन येन केन प्रकारेण पीडितः अस्ति। आतंकवादः विनाशस्य सा लीला या विश्वम् ग्रसितुम् तत्परा अस्ति। आतंकवादेन विश्वस्य अनेकानि क्षेत्राणि रक्तविलिप्तानि सन्ति। अनेके अनेके निर्दोषाः जनाः प्राणान् अत्यजन्। महिलाः विधवाः जाताः, बालाश्च अनाथाः अभवन्। सर्वशक्तिमान् अमेरिका देशोऽपि अनेन संतप्तः अस्ति। भारतं तु आतंकवादेन अनेकैः वर्षेः पीडितः वर्तते। आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्तेः वातावरणं द्रष्टुम् कामयन्ते। शान्तीच्छुकैः देशैः आतंकवादस्य राक्षसस्य विनाशाय मिलित्वा एव प्रयत्नाः समाधेयाः अन्यथा एषा समस्या सुरसामुखम् इव प्रतिदिनं वृद्धिं यास्यति।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘शान्तेः’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) अशान्तेः
(ख) संसारे
(ग) ते
(घ) देशैः

Answer

Answer: (क) अशान्तेः


Question 2.
‘अनेकैः वर्षेः’ इति पदयोः विशेषणपदम् किम्?
(क) वर्षेः
(ख) अनेकैः
(ग) अनेक
(घ) वर्ष

Answer

Answer: (ख) अनेकैः


Question 3.
‘यास्यति’ इति क्रियायाः कर्तृपदं किम्?
(क) एषा
(ख) समस्या
(ग) अन्यथा
(घ) इव

Answer

Answer: (ख) समस्या


Question 4.
‘रक्षणाय’ इति पदस्य विपर्यपद किम् प्रयुक्तम्?
(क) विनाशाय
(ख) दोषाय
(ग) तत्पराय
(घ) प्राणाय

Answer

Answer: (क) विनाशाय


Question 5.
आतंकवादः कस्य लीला?

Answer

Answer: विनाशस्य


Question 6.
कीदृशैः देशैः मिलित्वा आतंकवादस्य विनाशाय प्रयत्नाः समाधेयाः?

Answer

Answer: शान्तीच्छुकैः


Question 7.
आतंकवाद कीदृशी समस्या अस्ति?

Answer

Answer: गुरुतमा


Question 8.
आतंकवादे कीदृशाः जनाः सम्मिलिताः?

Answer

Answer: आतंकवादे तु ते एव जनाः सम्मिलिताः सन्ति ये स्वार्थपूर्तिम् कर्तुम् इच्छन्ति, संसारे च अशान्तेः वातावरणं द्रष्टुं कामयन्ते।


Question 9.
भारतं तु कथं पीडितो वर्तते?

Answer

Answer: भारतं तु आतंकवादेन अनेकैः वर्षेः पीडितः वर्तते।


Question 10.
संसारस्य प्रत्येकं देशः केन पीड़ितः अस्ति?

Answer

Answer: आतंकवादिन संसारस्य प्रत्येकेदेशः येन केन प्रकारेण पीडितः अस्ति।


Question 11.
अस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत। (इस अनुच्छेद का उचित शीर्षक लिखिए।

Answer

Answer: आतंकवादस्य विनाशलीला।


(12)

एकस्मिन् ग्रामे एकः व्याधः वसति स्म। तस्य नाम भैरवः आसीत्। सः जीविकार्थम् पशून हत्वा नगरे विक्रीणाति स्म। एकदा सः आखेटाय वनम् अगच्छत्। तत्र तेन एकः मृगः दृष्टः। सः तं मृगम् अमारयत्, तम् च नीत्वा गृहं प्रति अचलत्। तदैव सः मार्गे एकं सिंहम् अपश्यत्। तम् सिंहं दृष्ट्वा सः अचिन्तयत् ‘यदि एषः सिंहः अपि प्राप्तः भवेत् तर्हि अहं प्रभूतं धनं प्राप्स्यामि’। अनेन लोभेन यावत् सः सिंहः प्रति सरम् अक्षिपत् तावत् एव सिंहः अपि व्याधम् आक्राम्यत् सः व्याधः च तदा पञ्चत्वं गतौ।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘क्रीणाति’ अस्य पदस्य कः विपर्ययः अत्र दत्तः?
(क) क्रीणीतः
(ख) क्रीणति
(ग) विक्रीणाति
(घ) विक्रीणति

Answer

Answer: (ग) विक्रीणाति


Question 2.
अनुच्छेदे ‘अचिन्तयत्’ इति क्रियायाः कर्तृपदं किम्?
(क) तम्
(ख) सिंह
(ग) दृष्ट्वा
(घ) सः

Answer

Answer: (घ) सः


Question 3.
‘ग्रामे’ इत्यस्य विशेष्यस्य अनुच्छेदे विशेषणं किम्?
(क) एकस्मिन्
(ख) एके
(ग) एकः
(घ) वसति स्म

Answer

Answer: (क) एकस्मिन्


Question 4.
‘मृतम्’ इति अर्थे किं पदं प्रयुक्तम्?
(क) जीविकार्थम्
(ख) हतम्
(ग) पञ्चत्वम्
(घ) आक्राम्यत्

Answer

Answer: (ग) पञ्चत्वम्


Question 5.
व्याधः कुत्र वसति स्म?

Answer

Answer: ग्रामे


Question 6.
सः आखेटाय कुत्र अगच्छत्?

Answer

Answer: वनम्


Question 7.
भैरवः कः आसीत?

Answer

Answer: व्याधः


Question 8.
सिंहं दृष्ट्वा व्याधः किम् अचिन्तयत्?

Answer

Answer: सिंहं दृष्ट्वा व्याधः अचिन्तयत् ‘यदि एषः सिंहः अपि प्राप्तः भवेत् तर्हि अहं प्रभूतं धनं प्राप्स्यामि’।


Question 9.
व्याधः सिंहः च कथं पञ्चत्वं गतौ?

Answer

Answer: यावत् सः सिंहः प्रति सरम् अक्षिपत् तावत् एव सिंहः अपि व्याधम् आक्राम्यत् सः व्याधः च तदा पञ्चत्वं गतौ।


Question 10.
व्याधः जीविकार्थम् किं करोति स्म?

Answer

Answer: व्याधः जीविकार्थम् पश्नहत्वा नगरे विक्रीणाति स्म।


Question 11.
अस्याः गंद्यांशस्य कृते समुचितं शीर्षकं लिखत। (इस कथा का उपयुक्त शीर्षक लिखिए।

Answer

Answer: लोभस्य दुष्परिणामः।


(13)

सरसे वसन्ते ऋतौ सीताष्टमी अपि समायोज्यते। इदं पर्व अस्मान् नारीणां सम्मानं शिक्षयति। नारी संसारस्य मूलं वर्तते। सा गृहस्थाश्रमस्य जीवनशक्तिः अस्ति। नारी ‘देवी’ इति कृत्वा सम्बोध्यते। तस्याम् उच्चताया भावो वर्तते। आदिकविः वाल्मीकिः महाभागां सीताम् ‘अनुपमा’ इति कृत्वा कथयति। वस्तुतः जगति सा अद्वितीया आसीत्, तस्याः सुशीलता, सुलक्षणता सच्चरित्रता च अनुकरणीयाः सन्ति। महादेव्याः सीतायाः पावनं जीवनवृत्तं प्रत्येकं भारतीयनारीणां कृते एकम् आदर्श वर्तते तदनुकरणीयमपि अस्ति। अतः सीताष्टम्याः पर्व अन्यवीरपर्वणां जयन्तीनाम् इव अवश्यमेव आयोजनीयम् अस्ति। अनेन बालिकानां कृते शिक्षा आचरण-प्राप्तिरपि भवति। यतः नारीशिक्षा सर्वोत्तमास्ति, नारी नराणां स्रोतः इति।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
‘नारी संसारस्य मूलं वर्तते’। अत्र कर्तृपदं किम् अस्ति?
(क) मूलं
(ख) वर्तते
(ग) नारी
(घ) संसारस्य

Answer

Answer: (ग) नारी


Question 2.
अनुच्छेदे ‘पवित्र’ पदस्य कः पर्यायः प्रयुक्तो वर्तते?
(क) दिव्यं
(ख) नित्यं
(ग) पावनं
(घ) अनुपमम्

Answer

Answer: (ग) पावनं


Question 3.
गद्यांशे ‘निम्नतायाः’ पदस्य विपर्ययरूपे किं पदं लिखितम्?
(क) उच्चतायाः
(ख) विद्यायाः
(ग) अवस्थायाः
(घ) महादेव्याः

Answer

Answer: (क) उच्चतायाः


Question 4.
‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) इदं
(ख) सा
(ग) इव
(घ) मूलं

Answer

Answer: (ख) सा


Question 5.
का नराणां स्रोतः अस्ति?

Answer

Answer: नारी


Question 6.
सरसे वसन्त ऋतौ का समायोज्यते?

Answer

Answer: सीताष्टमी


Question 7.
संसारस्य मूलं का अस्ति?

Answer

Answer: नारी


Question 8.
सीतायाः का: अनुकरणीयाः सन्ति?

Answer

Answer: सीतायाः सुशीलता, सुलक्षणता सच्चरित्रता च अनुकरणीयाः सन्ति।


Question 9.
भारतीयनारीणां कृते एकम् आदर्श कि वर्तते?

Answer

Answer: महादेव्याः सीतायाः पावनं जीवनवृत्तं प्रत्येकं भारतीयनारीणां कृते एकम् आदर्श वर्तते


Question 10.
नारी कस्य जीवनशक्तिः अस्ति

Answer

Answer: नारी गृहस्थाश्रमस्य जीवनशक्तिः अस्ति।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: सीताष्टमी महापर्व।


(14)

बहुआयामी प्रतिभायाः धनी स्वामी श्रद्धानन्द सरस्वती महाभागानां पूर्वनाम मुंशीरामः आसीत्। सः पश्चात् “महात्मा मुंशीरामः” इति नाम्ना सम्बोध्यते स्म। तेषां महोदयानां जन्म पंजाब प्रान्तस्य तलवन इति ग्रामे फरवरी मासस्य द्वाविंशतिः, तारिकायां षट्पञ्चाशत् उत्तरे अष्टादश शताब्द्याम् ईस्वीये वर्षे अभवत्। तेषां शिक्षा-दीक्षा च वाराणसी लाहौर च नगरयोः अभवताम्। स्वामी दयानन्द सरस्वती महाभागेन सह तस्य मेलनं बरेली नगरे अभवत्। ते तेषां सिद्धान्तेभ्यः अतीव प्रभाविताः अभवन्। पश्चात् सः लाहौर नगरस्य आर्य समाजस्य सभासदः अभवत्। सः हरिद्वार नगरे गङ्गायास्तटे कांगड़ी ग्रामे गुरुकुलस्य स्थापनाम् अकरोत्। अधुना सा एव संस्था ‘गुरुकुल कांगड़ी विश्वविद्यालयः’ इति नाम्ना प्रसिद्धा वर्तते। दिसम्बर मासस्य त्रयोविंशत्यां तारिकायां षड्विंशतिः उत्तरे एकोनविंशति शते वर्षे तस्य बलिदानम् अभवत्।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।)
Answer in one word only-only two questions.

Question 1.
अनुच्छेदे ‘अकरोत्’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(क) मुंशीरामः
(ख) सः
(ग) संस्था
(घ) सा

Answer

Answer: (ख) सः


Question 2.
गद्यांशे ‘पूर्वम्’ इत्यस्य पदस्य कः विपर्ययः प्रयुक्तः?
(क) पश्चात्
(ख) अधुना
(ग) अद्य
(घ) सम्प्रति

Answer

Answer: (क) पश्चात्


Question 3.
‘सा एव संस्था’। अत्र विशेष्य पदं किम् अस्ति?
(क) एव
(ख) सा
(ग) संस्था
(घ) संस्थाः

Answer

Answer: (ग) संस्था


Question 4.
ते इति कर्तृपदस्य क्रियापदं किम्?
(क) सभवत्
(ख) अभवन्
(ग) आसीत्
(घ) वर्तते

Answer

Answer: (ख) अभवन्


Question 5.
स्वामी श्रद्धानंद सरस्वती महाभागानां पूर्वनाम किमासीत्?

Answer

Answer: मुंशीरामः


Question 6.
स्वामी श्रद्धानन्द सरस्वती महोदयानां बलिदानं कदा अभवत्।

Answer

Answer: दिसम्बर मासे


Question 7.
बहुआयामी प्रतिभायाः धनी कः आसीत्?

Answer

Answer: श्रद्धानन्दसरस्वती


Question 8.
सः कुत्र गुरुकुलस्य स्थापनाम् अकरोत्?

Answer

Answer: सः हरिद्वार नगरे गङ्गायास्तटे कांगड़ी ग्रामे गुरुकुलस्य स्थापनाम् अकरोत्।


Question 9.
अधुना सा एवं संस्था केन नाम्ना प्रसिद्धा वर्तते?

Answer

Answer: अधुना सा एव संस्था ‘गुरुकुल कांगड़ी विश्वविद्यालयः’ इति नाम्ना प्रसिद्धा वर्तते।


Question 10.
तस्य बलिदानम् कदा अभवत्?

Answer

Answer: दिसम्बर मासस्य त्रयोविंशत्यां तारिकायां षड्विंशतिः उत्तरे एकोनविंशतिः शते वर्षे तस्य बलिदानम् अभवत्।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद का उपयुक्त शीर्षक लिखिए।)

Answer

Answer: स्वामी श्रद्धानन्द सरस्वती महाभागानां जीवनम्।


(15)

देशस्य राजधानी देहल्यां यत् संसद् भवनमस्ति तस्य मूलप्रारूपरचना श्री एड्विन् लुटियन्स् हरबर्ट बेकरः च इति एताभ्यां योजनाकाराभ्यां कृता इति श्रूयते। सप्तविंशतिः वर्षाणि अधिकम् एकोनविंशतिः शताधिके वर्षे (1927 ई.) एतस्य भवनस्य लोकार्पणं जातम्। एतादृशं भवनं कथं निर्मातव्यम् इति कल्पना ताभ्यां योजनाकाराभ्यां कथं प्राप्ता। एवमनुमीयते यत् ताभ्यां बुद्धिबलात् एव तादृशी कल्पना कृता स्यात्। तथापि श्रूयते एवं यत् ‘ऐहोळे’ प्रदेशस्थं मन्दिरमेव तयोः कल्पनायाः मूलं स्यात् इति। तत् मन्दिरं कर्णाटके अस्ति। चालुक्यवंशीयैः राजभिः पञ्चमे शतके इदं मन्दिरं निर्मितम्। अस्य मन्दिरस्य अधिदेवता दुर्गा अस्ति। अनुमीयते यत् संसदभवन-निर्माणाय प्रेरणा इतः एव प्राप्ता स्यात्, न स्यादपि, तथापि उभयोः भवनयोः रचनायाम् साम्यं तु विशेषतः दृश्यते ननु।

एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही।
Answer in one word only-only two questions.

Question 1.
‘तत् मन्दिरं कर्णाटके अस्ति’। अत्र क्रियापदं किमस्ति?
(क) तत्
(ख) अस्ति
(ग) मन्दिरं
(घ) कर्णाटके

Answer

Answer: (ख) अस्ति


Question 2.
तादृशी कल्पना’ अनयोः पदयोः विशेषणं किम्?
(क) कल्पना
(ख) तादृक्
(ग) तादृशी
(घ) तादृशम्

Answer

Answer: (ग) तादृशी


Question 3.
अनुच्छेदे ‘विषमता’ इत्यस्य पदस्य कः विपर्ययः लिखितः?
(क) समानता
(ख) समानः
(ग) सादृश्यम्
(घ) साम्यम्

Answer

Answer: (घ) साम्यम्


Question 4.
निर्मितम् इति क्रियापदस्य कर्तृपदं किम्?
(क) चालुक्यवंशीय
(ख) राजभिः
(ग) चालुक्यवंशीयैर्राजभिः
(घ) अनुमीयते

Answer

Answer: (ग) चालुक्यवंशीयैर्राजभिः


Question 5.
श्री एड्विन् लुटियन्स् हरबर्ट बेकरः च कौ आस्ताम्?

Answer

Answer: योजनाकारौ


Question 6.
अस्य मन्दिरस्य अधिदेवता का अस्ति?

Answer

Answer: दुर्गा


Question 7.
मन्दिरं कुत्र अक्ति?

Answer

Answer: कर्णाटके


Question 8.
कदा एतस्य संसद् भवनस्य लोकार्पणं जातम्?

Answer

Answer: सप्तविंशतिः वर्षाणि अधिकं एकोन विंशतिः शताधिके वर्षे (1927 ई.) एतस्य संसद् भवनस्य लोकार्पणं जातम्।


Question 9.
कैः इदं मन्दिरं निर्मितम्?

Answer

Answer: चालुक्यवंशीयैः राजभिः पञ्चमे शतके इदं मन्दिरं निर्मितम्।


Question 10.
मन्दिरस्य मूल प्रारूपरचना कीदृशी अस्ति?

Answer

Answer: देशस्य राजधानी देहल्यां यत् संसदभवनमस्ति तस्य मूलप्रारूपरचना अस्ति।


Question 11.
उपरिलिखितस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत। (इस गद्यांश के लिए उचित शीर्षक लिखिए।)

Answer

Answer: भारतीय संसद् भवनम्।


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit अपठित-अवबोधनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

Kishen

Recent Posts

How to become A Geologist in India – Eligibility Criteria, Course, Skills Required, Career, Pay Scale

Employment for geoscientists has a lot of demand in India. Every year approximately 3000 candidates…

18 hours ago

How to Join NIA in India? | Roles, Eligibility Criteria, Salary and Allowances

How to Join NIA in India: Are you someone who loves to interrogate various issues? Do…

5 days ago

How to Join Marcos Marine Commando of Indian Navy? | Role and Selection Process of Marcos Marine Commando

How to Join Marcos Marine Commando of Indian Navy?: MARCOS or Marine Commando Force is…

5 days ago

How to become a Genetic Engineer in India – Eligibility, Job Roles, Study Material, Pay Scale & Others

A Genetic Engineer has a huge impact on society. We can expect the demand for…

5 days ago

Everything about Course Details | Stream Wise & Category Wise Courses

If you are looking for several courses that you can opt after your primary school…

5 days ago